Jain — Śvetāmbara
Kalkin’s reign, the flood and the monks’ deliverance — Sanskrit
भगवन्तं प्रणम्याथ गणभृद्गौतमोऽभ्यधात् । तृतीयारकपर्यन्ते भगवानृषभोऽभवत् ॥ ७४ ॥ त्रयोविंशतिरहन्तस्तुरीयारेऽजितादयः । अभवन्नवसर्पिण्यां यावद्यूयं जगद्गुरो ! ॥ ७५ ॥ अतः परं पंचमारे दुःषमानामनि प्रभो! । यद्भविष्यति तच्छंस प्रसीद परमेश्वर! ॥ ७६ ॥ स्वाम्याख्यान्मम निर्वाणादतीतैर्वत्सरैस्त्रिभिः । सार्धाष्टमाससहितैः पंचारः प्रवेक्ष्यति ॥ ७७ ॥ मन्निर्वाणाद्गतेष्वब्दशतेष्वेकोनविंशतौ । चतुर्दशाब्द्यां च म्लेच्छकुले चैत्राष्टमीदिने ॥ ७८ ॥ विष्टौ भावी नृपः कल्की स रुद्रोऽथ चतुर्मुखः । नामत्रयेण विख्यातः पाटलीपुत्रपत्तने ॥ ७९ ॥ तदा च मथुरापुर्यामकस्माद्रामकृष्णयोः । निपतिष्यत्यायतनं वाताहतजरद्रुवत् ॥ ८० ॥ क्रोधमानमायालोभाः सदा काष्ठे घुणा इव । नैसर्गिका भविष्यन्ति तस्मिन् क्रूरतराशये ॥ ८१ ॥ चौरा राजविरोधो राड्भयं गन्धरसक्षयः । दुर्भिक्षमीत्यवृष्टी च भविष्यन्ति तदा खलु ॥ ८२ ॥ कुमारोऽष्टादशाब्दानि तावन्त्येव च डामरी । ततः परं प्रचंडात्मा राजा कल्की भविष्यति ॥ ८३ ॥ नगरे पर्यटंस्तत्र पंच स्तूपान्निरीक्ष्य सः । परिप्रक्ष्यति पार्श्वस्थान् केनैते कारिता इति ॥ ८४ ॥ कथयिष्यन्ति तेऽप्येवं पुराऽऽसीद्विश्वविश्रुतः । नन्दो नाम क्षितिपतिर्धनैर्धनदसन्निभः ॥ ८५ ॥ हिरण्यमस्ति स्तूपेषु तेनेह निहितं बहु । नाऽऽदातुं तत्क्षमः कोपि बभूव पृथिवीपतिः ॥ ८६ ॥ कल्किराजस्तदाकर्ण्य भूरिलोभो निसर्गतः । खानयिष्यति तान् स्तूपान् हिरण्यं च ग्रहीष्यति ॥ ८७ ॥ सर्वतोऽपि पुरं तच्च सोऽर्थार्थी खानयिष्यति । अखिलांश्च महीपालांस्तृणवद्गणयिष्यति ॥ ८८ ॥ कल्किना खान्यमानायास्तदा च स्वपुरावनेः । नाम्ना लवणदेवी गौरुत्थास्यति शिलामयी ॥ ८९ ॥ चतुष्पथेऽवस्थिता सा भिक्षार्थमटतो मुनीन् । तत्प्रातिहार्याच्छृंगाग्रभागेणाघट्टयिष्यति ॥ ९० ॥ स्थविराश्च वदिष्यन्ति भाविनं सूचयत्यसौ । जलोपसर्गमत्यन्तं तत् क्वापि व्रजतान्यतः ॥ ९१ ॥ श्रुत्वैतत्केऽपि यास्यन्ति विहारेण महर्षयः । अन्ये तु भक्तवस्त्रादिलुब्धा वक्ष्यन्त्यदः खलु ॥ ९२ ॥ कालात्कर्मवशाद् भावि शुभं वा यदि वाऽशुभम् । कस्तन्निषेधितुमलंभूष्णुर्जिष्णुरपि स्वयम् ॥ ९३ ॥ ततः पाखंडिनः सर्वान् कल्की याचिष्यते करम् । तं च तस्मै प्रदास्यन्ति ते सारंभपरिग्रहाः ॥ ९४ ॥ अन्यैः पाखंडिभिर्दत्तः करो यूयं न दत्थ किम् ? । इति ब्रुवाणो लुब्धात्मा स साधूनपि रोत्स्यते ॥ ९५ ॥ साधवस्तं वदिष्यन्ति राजन् ! वयमकिंचनाः । भिक्षाभुजो धर्मलाभं विना किं दद्महे तव ? ॥ ९६ ॥ पुराणेषूक्तमस्त्येवं ब्रह्मनिष्ठांस्तपोधनान् । रक्षस्तत्पुण्यषष्ठांशभाग्भवेदवनीपतिः ॥ ९७ ॥ अस्माद् दुष्कर्मणस्तस्माद्विरमावनिशासन । व्यवसायोऽशुभायायं पुरे राष्ट्रे च सर्वथा ॥ ९८ ॥ एवं मुनिवचः श्रुत्वा कल्की कोपिष्यति द्रुतम् । उद्भ्रुकुटिः करालास्यः कृतान्त इव भीषणः ॥ ९९ ॥ किमरे! मर्तुकामोऽसि मर्त्याधम ! मुनीनपि । याचसेऽर्थं वक्ष्यतीति ततस्तं पुरदेवता ॥ १०० ॥ देवतावचसा तेन सिंहनादेन दन्तिवत् । भीतः कल्की नतिपूर्वं तान् साधून क्षमयिष्यति ॥ १०१ ॥ भविष्यन्ति च भूयांसस्तदोत्पाता भयंकराः । अन्वहं कल्किराजस्य नगरक्षयसूचकाः ॥ १०२ ॥ अहोरात्रान् सप्तदश वर्षिष्यत्यथ वारिदः । गंगाप्रवाहश्चोधृत्य तत्पुरं प्लावयिष्यति ॥ १०३ ॥ तत्राऽऽचार्यः प्रातिपदः कोऽपि संघजनोऽपि च । पूर्लोकः कोऽपि कल्की च स्थास्यन्ति स्थलमूर्धनि ॥ १०४ ॥ गंगाप्रवाहपयसा परितोऽपि प्रसारिणा । यास्यन्ति निधनं सद्यो बहवः पुरवासिनः ॥ १०५ ॥ जलोपसर्गे विरते नन्दद्रव्येण तेन तु । कल्किराजः पुनरपि करिष्यति नवं पुरम् ॥ १०६ ॥ भविष्यन्त्यायतनानि विहरिष्यन्ति साधवः । वर्षिष्यति च कालेऽब्दः सस्यनिष्पत्तिकारणम् ॥ १०७ ॥ द्रम्मेण कुंभलाभेऽपि सस्यं न क्रेष्यते जनः । पंचाशदब्दीमेवं च सुभिक्षं भावि कल्किनि ॥ १०८ ॥ आसन्नमृत्युभूयोऽपि कल्की पाखंडिनोऽखिलान् । त्याजयिष्यति लिंगानि व्युपद्रोष्यति चोच्चकैः ॥ १०९ ॥ ससंघं च प्रातिपदं न्यस्य गोवाटके तदा । याचिष्यते स भिक्षायाः षष्ठं भागं दुराशयः ॥ ११० ॥ संघः शक्राऽऽराधनाय कायोत्सर्गं करिष्यति । शासनदेव्यो वक्ष्यन्ति कल्किन् ! क्षेमाय न ह्यदः ॥ १११ ॥ संघस्य कायोत्सर्गानुभावेन चलितासनः । वृद्धद्विजवपुर्भूत्वा शक्रस्तत्राऽऽगमिष्यति ॥ ११२ ॥ महासिंहासनासीनं कल्किनं पर्षदि स्थितम् । शक्रो वक्ष्यति किं न्वेते निरुद्धाः साधवस्त्वया ? ॥ ११३ ॥ कल्की भाषिष्यते शक्र मत्पुरे निवसन्त्यमी । न मे करं तु यच्छन्ति भिक्षाषष्ठांशमप्यहो ॥ ११४ ॥ पाखंडाः करदाः सर्वे ममाभूवन्नमी तु न । दुर्गवीव बलाद्दोग्धुं निरुद्धास्तेन वाटके ॥ ११५ ॥ तं जल्पिष्यति शक्रोऽपि नैतेषामस्ति किंचन । भिक्षांशमपि दास्यन्ति न कस्यापि कदाऽप्यमी ॥ ११६ ॥ भिक्षुभ्यो याचमानस्त्वं भिक्षांशं लज्जसे न किम् । तन्मुंचामूनन्यथा ते भाव्यनर्थो महान् खलु ॥ ११७ ॥ कुप्यन्निति गिरा कल्की वदिष्यत्यररे भटाः ! । कंठे धृत्वा द्विजममुमपसारयत द्रुतम् ॥ ११८ ॥ इत्युक्ते कल्किनं कल्कपर्वतं पाकशासनः । चपेटाताडनात् सद्यो भस्मराशीकरिष्यति ॥ ११९ ॥ षडशीतिं वत्सराणामायुः संपूर्य कल्किराट् । नारको नरकावन्यां दुरन्तायां भविष्यति ॥ १२० ॥ अनुशिष्याऽऽर्हतं धर्मं दत्ताख्यं कल्किनः सुतम् । राज्ये निवेश्य वन्दित्वा संघं शक्रो गमिष्यति ॥ १२१ ॥ पितुः पापफलं घोरं शक्रशिक्षां च संस्मरन् । दत्तः करिष्यति महीमर्हच्चैत्यविभूषिताम् ॥ १२२ ॥ पंचमारकपर्यन्तं यावदेवमतः परम् । प्रवृत्तिर्जिनधर्मस्य भविष्यति निरन्तरा ॥ १२३ ॥