General Hinduism
Pramiti’s campaign and the return of Krita — Sanskrit
एवं सन्ध्यांशके काले सम्प्राप्ते तु युगान्तिके। तेषां शास्ता ह्यसाधूनां भृगूणां निधनोत्थितः ।। ५८.७५ ।। गोत्रेण वै चन्द्रमसो नाम्ना प्रमितिरुच्यते। माधवस्य तु सोंशेन पूर्वं स्वायम्भुवेऽन्तरे ।। ५८.७६ ।। समाः स विंशतिं पूर्णाः पर्यटन् वै वसुन्धराम्। आचकर्ष स वै सेनां सवाजिरथकुञ्जराम् ।। ५८.७७ ।। प्रगृहीतायुधैर्विप्रैः शतशोऽथ सहस्रशः। स तदा तैः परिवृतो म्लेच्छान् हन्ति सहस्रशः ।। ५८.७८ ।। स हत्वा सर्वगश्चैव राज्ञस्तान् शूद्रयोनिजात्। पाषण्डान् स ततः सर्वान्निःशेषान् हतवान् प्रभुः ।। ५८.७९ ।। नात्यर्थं धार्मिका ये च तान् सर्वान् हन्ति सर्वशः। वर्णव्यत्यासजातांश्च ये च तानुपजीविनः ।। ५८.८० ।। उदीच्यान्मध्यदेशांश्च पार्वतीयांस्तथैव च। प्राच्यान् प्रतीच्यांश्च तथा विन्ध्यपृष्ठापरान्तिकान् ।। ५८.८१ ।। तथैव दाक्षिणात्यांश्च द्रविडान् सिंहलैः सह। गान्दारान् पारदांश्चैव पह्नवान् यवनांस्तथा ।। ५८.८२ ।। तुषारान् वर्वरांश्चीनान् शूलिकान् दरदान् खसान्। लम्पाकानथ केतांश्च किरातानाञ्च जातयः ।। ५८.८३ ।। प्रवृत्तचक्रो बलवान् म्लेच्छानामन्तकृद्विभुः। अधृष्यः सर्वभूतानां चचाराथ वसुन्धराम् ।। ५८.८४ ।। माधवस्य तु सोंशेन देवस्य हि विजज्ञिवान् । पूर्वजन्मविधिज्ञैश्च प्रमितिर्नाम वीर्यवान् ।। ५८.८५ ।। गोत्रेण वै चन्द्रमसः पूर्वे कलियुगे प्रभुः। द्वात्रिंशेऽभ्युदिते वर्षे प्रक्रान्ते विंशतिं समाः ।। ५८.८६ ।। विनिघ्नन् सर्वभूतानि मानवानि सहस्रशः। कृत्वा वीर्यावशेषान्तु पृथ्वीं रूढेन कर्मणा । परस्परनिमित्तेन कोपेनाकस्मिकेन तु ।। ५८.८७ ।। स साधयित्वा वृषलान् प्रायशस्तानधार्मिकान् । गङ्गायमुनयोर्मध्ये निष्ठां प्राप्तः सहानुगः ।। ५८.८८ ।। ततो व्यतीते तस्मिंस्तु अमात्ये सत्यसैनिके। उत्साद्य पार्थिवान् सर्वान् म्लेच्छांश्चैव सहस्रशः ।। ५८.८९ ।। तत्र सन्ध्यांशके काले सम्प्राप्ते तु युगान्तिके। स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित् क्वचित् ।। ५८.९० ।। अप्रग्रहास्ततस्ता वै लोकचेष्टास्तु वृन्दशः। उपहिंसन्ति चान्योन्यं प्रपद्यन्ते परस्परम् ।। ५८.९१ ।। अराजके युगवशात् संशये समुपस्थिते। प्रजास्ता वै ततः सर्वाः परस्परभयार्दिताः ।। ५८.९२ ।। व्याकुलाश्च परिश्रान्तास्त्यक्त्वा दारान् गृहाणि च। स्वान् प्राणान् समवेक्षन्तो निष्ठां प्राप्ताः सुदुःखिताः ।। ५८.९३ ।। नष्टे श्रौते स्मृते धर्मे परस्परहतास्तदा। निर्मर्यादा निराक्रन्दा निःस्नेहा निरपत्रपाः ।। ५८.९४ ।। नष्टे वर्षे प्रतिहता ह्रस्वकाः पञ्चविंशकाः। हित्वा दारांश्च पुत्रांश्च विषादव्याकुलेन्द्रियाः ।। ५८.९५ ।। अनावृष्टिहताश्चैव वार्त्तामुत्सृज्य दुःखिताः। प्रत्यन्तांस्तान्निषेवन्ते हित्वा जनपदान् स्वकान् ।। ५८.९६ ।। सरितः सागरान् कूपान् सेवन्ते पर्वतांस्तदा। मधुमांसैर्मूलफलैर्वर्त्तयन्ति सुदुःखिताः ।। ५८.९७ ।। चीरवस्त्राजिनधरा निष्पत्रा निष्परिग्रहाः। वर्णाश्रमपरिभ्रष्टाः सङ्करं घोरमास्थिताः ।। ५८.९८ ।। एताः काष्ठामनुप्राप्ता अल्पशेषास्तथा प्रजाः । जराव्याधिक्षुधाविष्टा दुःखान्निर्वेदमागमन् ।। ५८.९९ ।। विचारणन्तु निर्वेदात् साम्यावस्था विचारणात्। साम्यावस्थासु सम्बोधः सम्बोधाद्धर्मशीलता ।। ५८.१०० ।। तासुपगमयुक्तासु कलिशिष्टासु वै स्वयम्। अहोरात्रं तदा तासां युगन्तु परिवर्त्तते ।। ५८.१०१ ।। चित्तसम्मोहनं कृत्वा तासान्तैः सप्तमन्तु तत्। भाविनोऽर्थस्य च बलात्ततः कृतमवर्तत ।। ५८.१०२ ।। प्रवृत्ते तु पुनस्तस्मिंस्ततः कृतयुगे तु वै। उत्पन्नाः कलिशिष्टास्तु कार्तयुग्यः प्रजास्तदा ।। ५८.१०३ ।। तिष्ठन्ति चेह ये सिद्धाः सुदृष्टा विचरन्ति च। सदा सप्तर्षयश्चैव तत्र ते च व्यवस्थिताः ।। ५८.१०४ ।। ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह। कलिजैः सह ते सर्वे निर्विशेषास्तदाभवन् ।। ५८.१०५ ।। तेषां सप्तर्षयो धर्मं कथयन्तीतरेषु च । वर्णा श्रमाचारयुक्तः श्रौतः स्मार्तो द्विधा तु सः ।। ५८.१०६ ।। ततस्तेषु क्रियावत्सु वर्त्तन्ते वै प्रजाः कृते । श्रौतः स्मार्त्तः कृतानान्तु धर्मः सप्तर्षिदर्शितः ।। ५८.१०७ ।। तासु धर्मव्यवस्थार्थं तिष्ठन्तीहायुगक्षयात् । मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै ।। ५८.१०८ ।। यथा दावप्रदग्धेषु तृणेष्विह तपे ऋतौ । नवानां प्रथमं दृष्टस्तेषां मूले तु सम्भवः ।। ५८.१०९ ।। एवं युगाद्युगस्तेह सन्तानस्तु परस्परम् । वर्त्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तरक्षयः ।। ५८.११० ।।